Sarga 38: Ascending Mount Suvela
सुवेलारोहणम्
suvelārohaṇam — word-by-word gloss for all 19 shlokas.
Jump to a shloka · 19 in this sarga
स तु कृत्वा सुवेलस्य मतिमारोहणं प्रति । लक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् ।।6.38.1।।
Meaning
विभीषणं च धर्मज्ञमनुरक्तं निशाचरम् । मन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ।।6.38.2।।
Meaning
सुवेलं साधुशैलेन्द्रमिमं धातुशतैश्चितम् । अध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ।।6.38.3।।
Meaning
लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः । येन मे मरणान्ताय हृता भार्या दुरात्मना ।।6.38.4।।
Meaning
येन धर्मो न विज्ञातो न तद्वृत्तं कुलं तथा । राक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम् ।।6.38.5।।
Meaning
तस्मिन्मे वर्तते रोषः कीर्तिते राक्षसाधमे । यस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् ।।6.38.6।।
Meaning
एको हि कुरुते पापं कालपाशवशं गतः । नीचेनात्मापचारेण कुलं तेन विनश्यति ।।6.38.7।।
Meaning
एवं सम्मन्त्रयन्नेव सक्रोधो रावणं प्रति । रामः सुवेलं वासाय चित्रसानुमुपारुहत् ।।6.38.8।।
Meaning
पृष्ठतो लक्ष्मणश्चैनमन्वगच्छत्समाहितः । सशरं चापमुद्यम्य सुमहद्विक्रमे रतः ।।6.38.9।।
Meaning
तमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः । हनुमानङ्गदो नीलो मैन्दो द्विविद एव च ।।6.38.10।।
Meaning