Sarga 70: Devāntaka and Others Slain
देवान्तकादिवधः
devāntakādivadhaḥ — word-by-word gloss for all 67 shlokas.
Jump to a shloka · 67 in this sarga
नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैरृतर्षभाः । देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ।।6.70.1।।
Meaning
आरूढो मेघसङ्काशं वारणेन्द्रं महोदरः । वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ।।6.70.2।।
Meaning
भ्रातृव्यसनसन्तप्तस्तथा देवान्तको बली । आदाय परिघं दीप्तमङ्गदं समभिद्रवत् ।।6.70.3।।
Meaning
रथमादित्यसङ्काशं युक्तं परमवाजिभिः । आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ।।6.70.4।।
Meaning
स त्रिभिर्देवदर्पघ्नैर्नैरृतेन्द्रैरभिद्रुतः । वृक्षमुत्पाटयामास महाविटपमङ्गदः ।।6.70.5।।
Meaning
देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः । महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ।।6.70.6।।
Meaning
त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः । स वृक्षं कृत्तमालोक्य उत्पपात तदाङ्गदः ।।6.70.7।।
Meaning
स ववर्ष ततो वृक्षान् शैलांश्च कपिकुञ्जरः । तान्प्रचिच्छेद सङ्क्रुद्धस्त्रिशिरा निशितैः शरैः ।।6.70.8।।
Meaning
परिघाग्रेण तान्वृक्षान्बभञ्ज च सुरान्तकः । त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः ।।6.70.9।।
Meaning
गजेन समभिद्रुत्य वालिपुत्रं महोदरः । जघानोरसि सङ्क्रुद्धस्तोमरैर्वज्रसन्निभैः ।।6.70.10।।
Meaning