Sarga 37: Rāma Divides His Forces
रामगुल्मविभागः
rāmagulmavibhāgaḥ — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
नरवानरराजौ तौ स च वायुसुतः कपिः । जाम्बवानृक्षराजश्च राक्षसश्च विभीषणः ।।6.37.1।।
Meaning
अङ्गदो वालिपुत्रश्च सौमित्रिः शरभः कपिः । सुषेणः सहदायादो मैन्दो द्विविद एव च ।।6.37.2।।
Meaning
गजो गवाक्षः कुमुदो नलोऽथ पनसस्तथा । अमित्रविषयं प्राप्ताः समवेताः समर्थयन् ।।6.37.3।।
Meaning
इयं सा लक्ष्यते लङ्का पुरी रावणपालिता । सासुरोरगगन्धर्वैरमरैरपि दुर्जया ।।6.37.4।।
Meaning
कार्यसिद्धिं पुरस्कृत्य मन्त्रयध्वं विनिर्णये । नित्यं सन्निहितो ह्यत्र रावणो राक्षसाधिपः ।।6.37.5।।
Meaning
तथा तेषु ब्रुवाणेषु रावणावरजोऽब्रवीत् । वाक्यमग्राम्यपदवत्पुष्कलार्थं विभीषणः ।।6.37.6।।
Meaning
अनलः शरभश्चैव सम्पातिः प्रघसस्तथा । गत्वा लङ्कां ममामात्याः पुरीं पुनरिहागताः ।।6.37.7।।
Meaning
भूत्वा शकुनयः सर्वे प्रविष्टाश्च रिपोर्बलम् । विधानं विहितं यच्च तद्दृष्ट्वा समुपस्थिताः ।।6.37.8।।
Meaning
संविधानं यथाहुस्ते रावणस्य दुरात्मनः । राम तद्ब्रुवतः सर्वं यथा तत्त्वेन मे शृणु ।।6.37.9।।
Meaning
पूर्वं प्रहस्तः सबलो द्वारमासाद्य तिष्ठति । दक्षिणं च महावीर्यौ महापार्श्वमहोदरौ ।।6.37.10।।
Meaning