Sarga 10: Vibhīṣaṇa's Wholesome Advice
विभीषणपथ्योपदेशः
vibhīṣaṇapathyopadeśaḥ — word-by-word gloss for all 29 shlokas.
Jump to a shloka · 29 in this sarga
ततः प्रत्युषसि प्राप्ते प्राप्तधर्मार्थनिश्चयः । राक्षसाधिपतेर्वेश्म भीमकर्मा विभीषणः ।।6.10.1।।
Meaning
शैलाग्रचयसङ्काशं शैलशृङ्गमिवोन्नतम् । सुविभक्तमहाकक्ष्यं महाजनपरिग्रहम् ।।6.10.2।।
Meaning
मतिमद्भिर्महामात्रैरनुरक्तैरधिष्ठितम् । राक्षसैश्चाप्तपर्याप्तैः सर्वतः परिरक्षितम् ।।6.10.3।।
Meaning
मत्तमातङ्गनिःश्वासैर्व्याकुलीकृतमारुतम् । शङ्खघोषमहाघोषं तूर्यनादानुनादितम् ।।6.10.4।।
Meaning
प्रमदाजनसम्बाधं प्रजल्पितमहापथम् । तप्तकाञ्चननिर्यूहं भूषणोत्तमभूषितम् ।।6.10.5।।
Meaning
गन्धर्वाणामिवावासमालयं मरुतामिव । रत्नसञ्चयसम्बाधं भवनं भोगिनामिव ।।6.10.6।।
Meaning
तं महाभ्रमिवादित्यस्तेजोविस्तृतरश्मिमान् । अग्रजस्यालयं वीरः प्रविवेश महाद्युतिः ।।6.10.7।।
Meaning
पुण्यान् पुण्याहघोषांश्च वेदविद्भिरुदाहृतान् । शुश्राव सुमहातेजा भ्रातुर्विजयसंश्रितान् ।।6.10.8।।
Meaning
पूजितान् दधिपात्रैश्च सर्पिर्भिः सुमनोक्षतैः । मन्त्रवेदविदो विप्रान् ददर्श सुमहाबलः ।।6.10.9।।
Meaning
स पूज्यमानो रक्षोभिर्दीप्यमानः स्वतेजसा । आसनस्थं महाबाहुर्ववन्दे धनदानुजम् ।।6.10.10।।
Meaning