Sarga 24: Rāvaṇa's Vow
रावणप्रतिज्ञा
rāvaṇapratijñā — word-by-word gloss for all 45 shlokas.
Jump to a shloka · 45 in this sarga
सा वीरसमिती राज्ञा विरराज व्यवस्थिता । शशिना शुभनक्षत्रा पौर्णमासीव शारदी ।।6.24.1।।
Meaning
प्रचचाल च वेगेन त्रस्ता चैव वसुन्धरा । पीड्यमाना बलौघेन तेन सागरवर्चसा ।।6.24.2।।
Meaning
ततः शुश्रुवुराक्रुष्टं लङ्कायाः काननौकसः । भेरीमृदङ्गसङ्घुष्टं तुमुलं रोमहर्षणम् ।।6.24.3।।
Meaning
बभूवुस्तेन घोषेण संहृष्टा हरियूथपाः । अमृष्यमाणास्तं घोषं विनेदुर्घोषवत्तरम् ।।6.24.4।।
Meaning
राक्षसास्तु प्लवङ्गानां शुश्रुवुश्चापि गर्जितम् । नर्दतामिव दृप्तानां मेघानामम्बरे स्वनम् ।।6.24.5।।
Meaning
दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् । जगाम मनसा सीतां दूयमानेन चेतसा ।।6.24.6।।
Meaning
अत्र सा मृगशाबाक्षी रावणेनोपरुध्यते । अभिभूता ग्रहेणेव लोहिताङ्गेन रोहिणी ।।6.24.7।।
Meaning
दीर्घमुष्णं च निःश्वस्य समुद्वीक्ष्य च लक्ष्मणम् । उवाच वचनं वीरस्तत्कालहितमात्मनः ।।6.24.8।।
Meaning
आलिखन्तीमिवाकाशमुत्थितां पश्य लक्ष्मण । मनसेव कृतां लङ्कां नगाग्रे विश्वकर्मणा ।।6.24.9।।
Meaning
विमानैर्बहुभिर्लङ्का सङ्कीर्णा भुवि राजते । विष्णोः पदमिवाकाशं छादितं पाण्डुरैर्घनैः ।।6.24.10।।
Meaning