Sarga 60: Kumbhakarṇa Awakened
कुम्भकर्णप्रबोधः
kumbhakarṇaprabodhaḥ — word-by-word gloss for all 98 shlokas.
Jump to a shloka · 98 in this sarga
स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः । भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ।।6.60.1।।
Meaning
मातङ्ग इव सिंहेन गरुडेनेव पन्नगः । अभिभूतोऽभवद्राजा राघवेण महात्मना ।।6.60.2।।
Meaning
ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् । स्मरन्राघवबाणानां विव्यथे राक्षसेश्वरः ।।6.60.3।।
Meaning
स काञ्चनमयं दिव्यमाश्रित्य परमासनम् । विप्रेक्षमाणो रक्षांसि रावणो वाक्यमब्रवीत् ।।6.60.4।।
Meaning
सर्वं तत्खलु मे मोघं यत्तप्तं परमं तपः । यत्समानो महेन्द्रेण मानुषेणास्मि निर्जितः ।।6.60.5।।
Meaning
इदं तद्ब्रह्मणो घोरं वाक्यं मामभ्युपस्थितम् । मानुषेभ्यो विजानीहि भयं त्वमिति तत्तथा ।।6.60.6।।
Meaning
देवदानवगन्धर्वैर्यक्षराक्षसपन्नगैः । अवध्यत्वं मया प्राप्तं मानुषेभ्यो न याचितम् ।।6.60.7।।
Meaning
तमिमं मानुषं मन्ये रामं दशरथात्मजम् । इक्ष्वाकुकुलनाथेन अनरण्येन यत्पुरा ।।6.60.8।।
Meaning
उत्पत्स्यते हि मद्वंशे पुरुषो राक्षसाधम । यस्त्वां सपुत्रं सामात्यं सबलं साश्वसारथिम् ।।6.60.9।।
Meaning
निहनिष्यति सङ्ग्रामे त्वां कुलाधम दुर्मते । शप्तोऽहं वेदवत्या च यदा सा धर्षिता पुरा ।।6.60.10।।
Meaning