Sarga 47: Sītā Shown the Bound Princes
नागबद्धरामलक्ष्मणप्रदर्शनम्
nāgabaddharāmalakṣmaṇapradarśanam — word-by-word gloss for all 24 shlokas.
Jump to a shloka · 24 in this sarga
प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे । राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः ।।6.47.1।।
Meaning
हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः । गजो गवाक्षो गवयः शरभो गन्धमादनः ।।6.47.2।।
Meaning
जाम्बवानृषभः स्कन्धो रम्भः शतवलिः पृथुः । व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः ।।6.47.3।।
Meaning
वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः । तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ।।6.47.4।।
Meaning
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् । आजुहाव ततः सीतारक्षिणी राक्षसीस्तदा ।।6.47.5।।
Meaning
राक्षस्यस्त्रिजटा चैव शासनात्समुपस्थिताः । ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः ।।6.47.6।।
Meaning
हताविन्द्रजिताख्यात वैदेह्या रामलक्ष्मणौ । पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे ।।6.47.7।।
Meaning
यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठति । सोऽस्या भर्ता सह भ्रात्रा निरस्तो रणमूर्धनि ।।6.47.8।।
Meaning
निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली । मामुपस्थास्यते सीता सर्वाभरणभूषिता ।।6.47.9।।
Meaning
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् । अवेक्ष्य विनिवृत्ताशा नान्यां गतिमपश्यती ।।6.47.10।।
Meaning