Sarga 42: The Battle Begins

युद्धारम्भः

yuddhārambhaḥ — word-by-word gloss for all 48 shlokas.

Page 1 of 548 shlokas in this sarga (verified max-across-sources)
Shloka 42.1Word-by-word available

ततस्ते राक्षसास्तत्र गत्वा रावणमन्दिरम् । न्यवेदयन्पुरीं रुद्धां रामेण सह वानरैः ।।6.42.1।।

Meaning

Shloka 42.2Word-by-word available

रुद्धां तु नगरीं श्रुत्वा जातक्रोधो निशाचरः । विधानं द्विगुणं कृत्वा प्रासादं सोऽध्यरोहत ।।6.42.2।।

Meaning

Shloka 42.3Word-by-word available

स ददर्शावृतां लङ्कां सशैलवनकाननाम् । असङ्ख्येयैर्हरिगणैः सर्वतो युद्धकाङ्क्षिभिः ।।6.42.3।।

Meaning

Shloka 42.4Word-by-word available

स दृष्ट्वा वानरैः सर्वां वसुधां कवलीकृताम् । कथं क्षपयितव्याः स्युरिति चिन्तापरोऽभवत् ।।6.42.4।।

Meaning

Shloka 42.5Word-by-word available

स चिन्तयित्वा सुचिरं धैर्यमालम्ब्य रावणः । राघवं हरियूथांश्च ददर्शायतलोचनः ।।6.42.5।।

Meaning

Shloka 42.6Word-by-word available

राघवः सह सैन्येन मुदितो नाम पुप्लुवे । लङ्कां ददर्श गुप्तां वै सर्वतो राक्षसैर्वृताम् ।।6.42.6।।

Meaning

Shloka 42.7Word-by-word available

दृष्ट्वा दाशरथिर्लङ्कां चित्रध्वजपताकिनीम् । जगाम सहसा सीतां दूयमानेन चेतसा ।।6.42.7।।

Meaning

Shloka 42.8Word-by-word available

अत्र सा मृगशाबाक्षी मत्कृते जनकात्मजा । पीड्यते शोकसन्तप्ता कृशा स्थण्डिलशायिनी ।।6.42.8।।

Meaning

Shloka 42.9Word-by-word available

पीड्यमानां स धर्मात्मा वैदेहीमनुचिन्तयन् । क्षिप्रमाज्ञापयामास वानरान्द्विषतां वधे ।।6.42.9।।

Meaning

Shloka 42.10Word-by-word available

एवमुक्ते तु वचने रामेणाक्लिष्टकर्मणा । सङ्घर्षमाणाः प्लवगाः सिंहनादैरनादयन् ।।6.42.10।।

Meaning