Sarga 64: A Scheme to Tempt Sītā
सीताप्रलोभनोपायः
sītāpralobhanopāyaḥ — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
तदुक्तमतिकायस्य बलिनो बाहुशालिनः । कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ।।6.64.1।।
Meaning
कुम्भकर्ण कुले जातो धृष्टः प्राकृतदर्शनः । अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ।।6.64.2।।
Meaning
न हि राजा न जानीते कुम्भकर्ण नयानयौ । त्वं तु कैशोरकाद्धृष्टः केवलं वक्तुमिच्छसि ।।6.64.3।।
Meaning
स्थानं वृद्धिं च हानिं च देशकालविभागवित् । आत्मनश्च परेषां च बुध्यते राक्षसर्षभः ।।6.64.4।।
Meaning
यत्त्वशक्यं बलवता कर्तुं प्राकृतबुद्धिना । अनुपासितवृद्धेन कः कुर्यात्तादृशं बुधः ।।6.64.5।।
Meaning
यांस्तु धर्मार्थकामांस्त्वं ब्रवीषि पृथगाश्रयान् । अनुबोद्धुं स्वभावे तान्नहि लक्षणमस्ति ते ।।6.64.6।।
Meaning
कर्म चैव हि सर्वेषां कारणानां प्रयोजकम् । श्रेयः पापीयसां चात्र फलं भवति कर्मणाम् ।।6.64.7।।
Meaning
निःश्रेयसफलावेव धर्मार्थावितरावपि । अधर्मानर्थयोः प्राप्तिः फलं च प्रत्यवायिकम् ।।6.64.8।।
Meaning
ऐहलौकिकपारत्रं कर्म पुम्भिर्निषेव्यते । कर्माण्यपि तु कल्याणि लभते काममास्थितः ।।6.64.9।।
Meaning
तत्र क्लुप्तमिदं राज्ञा हृदि कार्यं मतं च नः । शत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयताम् ।।6.64.10।।
Meaning