Sarga 64: A Scheme to Tempt Sītā
सीताप्रलोभनोपायः
sītāpralobhanopāyaḥ — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
एकस्यैवाभियाने तु हेतुर्यः कथितस्त्वया । तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ।।6.64.11।।
Meaning
येन पूर्वं जनस्थाने बहवोऽतिबला हताः । राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ।।6.64.12।।
Meaning
ये पुरा निर्जितास्तेन जनस्थाने महौजसः । राक्षसांस्तान्पुरे सर्वान्भीतानद्यापि पश्यसि ।।6.64.13।।
Meaning
तं सिंहमिव सङ्क्रुद्धं रामं दशरथात्मजम् । सर्पं सुप्तमिवाबुध्य प्रबोधयितुमिच्छसि ।।6.64.14।।
Meaning
ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् । कस्तं मृत्युमिवासह्यमासादयितुमर्हति ।।6.64.15।।
Meaning
संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने । एकस्य गमनं तत्र न हि मे रोचते भृशम् ।।6.64.16।।
Meaning
हीनार्थः सुसमृद्धार्थं को रिपुं प्राकृतं यथा । निश्चित्य जीवितत्यागे वशमानेतुमिच्छति ।।6.64.17।।
Meaning
यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम । कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ।।6.64.18।।
Meaning
एवमुक्त्वा तु संरब्धं कुम्भकर्णं महोदरः । उवाच रक्षसां मध्ये रावणं लोकरावणम् ।।6.64.19।।
Meaning
लब्ध्वा पुनस्त्वं वैदेहीं किमर्थं सम्प्रजल्पसि । यदीच्छसि तदा सीता वशगा ते भविष्यति ।।6.64.20।।
Meaning