Sarga 52: Dhūmrākṣa Slain
धूम्राक्षवधः
dhūmrākṣavadhaḥ — word-by-word gloss for all 39 shlokas.
Jump to a shloka · 39 in this sarga
धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् । विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ।।6.52.1।।
Meaning
तेषां सुतुमुलं युद्धं सञ्जज्ञे हरिरक्षसाम् । अन्योन्यं पादपैर्घोरं निघ्नतां शूलमुद्गरैः ।।6.52.2।।
Meaning
घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संहतैः । राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः ।।6.52.3।।
Meaning
वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः । राक्षसाश्चापि सङ्क्रुद्धा वानरान्निशितैः शरैः ।।6.52.4।।
Meaning
विव्यधुर्घोरसङ्काशैः कङ्कपत्रैरजिह्मगैः । ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः ।।6.52.5।।
Meaning
विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः । अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ।।6.52.6।।
Meaning
शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः । जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ।।6.52.7।।
Meaning
ते भीमवेगा हरयो नर्दमानास्ततस्ततः । ममन्थू राक्षसान्भीमान्नामानि च बभाषिरे ।।6.52.8।।
Meaning
तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् । शिलाभिर्विविधाभिश्च बहुभिश्चैव पादपैः ।।6.52.9।।
Meaning
राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः । ववमू रुधिरं केचिन्मुखै रुधिरभोजनाः ।।6.52.10।।
Meaning