Sarga 18: Vibhīṣaṇa Accepted
विभीषणसङ्ग्रहनिर्णयः
vibhīṣaṇasaṅgrahanirṇayaḥ — word-by-word gloss for all 39 shlokas.
Jump to a shloka · 39 in this sarga
अथ रामः प्रसन्नात्मा श्रुत्वा वायुसुतस्य ह । प्रत्यभाषत दुर्धर्षः श्रुतवानात्मनि स्थितम् ।।6.18.1।।
Meaning
ममापि तु विवक्षाऽस्ति काचित्प्रति विभीषणम् । श्रोतुमिच्छामि तत्सर्वं भवद्भिः श्रेयसि स्थितैः ।।6.18.2।।
Meaning
मित्रभावेन सम्प्राप्तं न त्यजेयं कथञ्चन । दोषो यद्यपि तस्य स्यात्सतामेतदगर्हितम् ।।6.18.3।।
Meaning
सुग्रीवस्त्वथ तद्वाक्यमाभाष्य च विमृश्य च । ततः शुभतरं वाक्यमुवाच हरिपुङ्गवः ।।6.18.4।।
Meaning
सुदुष्टो वाऽप्यदुष्टो वा किमेष रजनीचरः । ईदृशं व्यसनं प्राप्तं भ्रातरं यः परित्यजेत् ।।6.18.5।।
Meaning
को नाम स भवेत्तस्य यमेष न परित्यजेत् । वानराधिपतेर्वाक्यं श्रुत्वा सर्वानुदीक्ष्य च ।।6.18.6।।
Meaning
ईषदुत्स्मयमानस्तु लक्ष्मणं पुण्यलक्षणम् । इति होवाच काकुत्स्थो वाक्यं सत्यपराक्रमः ।।6.18.7।।
Meaning
अनधीत्य च शास्त्राणि वृद्धाननुपसेव्य च । न शक्यमीदृशं वक्तुं यदुवाच हरीश्वरः ।।6.18.8।।
Meaning
अस्ति सूक्ष्मतरं किञ्चिद्यदत्र प्रतिभाति मे । प्रत्यक्षं लौकिकं वाऽपि विद्यते सर्वराजसु ।।6.18.9।।
Meaning
अमित्रास्तत्कुलीनाश्च प्रातिदेश्याश्च कीर्तिताः । व्यसनेषु प्रहर्तारस्तस्मादयमिहागतः ।।6.18.10।।
Meaning