Sarga 30: The Monkey Army Counted
वानरबलसङ्ख्यानम्
vānarabalasaṅkhyānam — word-by-word gloss for all 35 shlokas.
Jump to a shloka · 35 in this sarga
ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः । सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ।।6.30.1।।
Meaning
चाराणां रावणः श्रुत्वा प्राप्तं रामं महाबलम् । जातोद्वेगोऽभवत्किञ्चिच्छार्दूलं वाक्यमब्रवीत् ।।6.30.2।।
Meaning
अयथावच्च ते वर्णो दीनश्चासि निशाचर । नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः ।।6.30.3।।
Meaning
इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् । तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ।।6.30.4।।
Meaning
न ते चारयितुं शक्या राजन्वानरपुङ्गवाः । विक्रान्ता बलवन्तश्च राघवेण च रक्षिताः ।।6.30.5।।
Meaning
नापि सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते । सर्वतो रक्ष्यते पन्था वानरैः पर्वतोपमैः ।।6.30.6।।
Meaning
प्रविष्टमात्रे ज्ञातोऽहं बले तस्मिन्नचारिते । बलाद्गृहीतो रक्षोभिर्बहुधाऽस्मि विचालितः ।।6.30.7।।
Meaning
जानुभिर्मुष्टिभिर्दन्तैस्तलैश्चाभिहतो भृशम् । परिणीतोऽस्मि हरिभिर्बलवद्भिरमर्षणैः ।।6.30.8।।
Meaning
परिणीय च सर्वत्र नीतोऽहं रामसंसदम् । रुधिरादिग्धसर्वाङ्गो विह्वलश्चलितेन्द्रियः ।।6.30.9।।
Meaning
हरिभिर्वध्यमानश्च याचमानः कृताञ्जलिः । राघवेण परित्रातो जीवामीति यदृच्छया ।।6.30.10।।
Meaning