Sarga 55: Akampana's Battle

अकम्पनयुद्धम्

akampanayuddham — word-by-word gloss for all 32 shlokas.

Page 1 of 432 shlokas in this sarga (verified max-across-sources)
Shloka 55.1Word-by-word available

वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः । बलाध्यक्षमुवाचेदं कृताञ्जलिमवस्थितम् ।।6.55.1।।

Meaning

Shloka 55.2Word-by-word available

शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः । अकम्पनं पुरस्कृत्य सर्वशस्त्रास्त्रकोविदम् ।।6.55.2।।

Meaning

Shloka 55.3Word-by-word available

एष शास्ता च गोप्ता च नेता च युधि सम्मतः । भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ।।6.55.3।।

Meaning

Shloka 55.4Word-by-word available

एष जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् । वानरांश्चापरान्घोरान्हनिष्यति परन्तपः ।।6.55.4।।

Meaning

Shloka 55.5Word-by-word available

परिगृह्य स तामाज्ञां रावणस्य महाबलः । बलं सन्त्वरयामास तदा लघुपराक्रमः ।।6.55.5।।

Meaning

Shloka 55.6Word-by-word available

ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः । निष्पेतू रक्षसां मुख्या बलाध्यक्षप्रचोदिताः ।।6.55.6।।

Meaning

Shloka 55.7Word-by-word available

रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः । मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ।।6.55.7।।

Meaning

Shloka 55.8Word-by-word available

राक्षसैः संवृतो भीमैस्तदा निर्यात्यकम्पनः । न हि कम्पयितुं शक्यः सुरैरपि महामृधे ।।6.55.8।।

Meaning

Shloka 55.9Word-by-word available

अकम्पनस्ततस्तेषामादित्य इव तेजसा । तस्य निर्धावमानस्य संरब्धस्य युयुत्सया ।।6.55.9।।

Meaning

Shloka 55.10Word-by-word available

अकस्माद्दैन्यमागच्छद्धयानां रथवाहिनाम् । व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ।।6.55.10।।

Meaning