Sarga 56: Akampana Slain

अकम्पनवधः

akampanavadhaḥ — word-by-word gloss for all 39 shlokas.

Page 1 of 439 shlokas in this sarga (verified max-across-sources)
Shloka 56.1Word-by-word available

तद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः । क्रोधमाहारयामास युधि तीव्रमकम्पनः ।।6.56.1।।

Meaning

Shloka 56.2Word-by-word available

क्रोधमूर्छितरूपस्तु धून्वन्परमकार्मुकम् । दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ।।6.56.2।।

Meaning

Shloka 56.3Word-by-word available

तत्रैव तावत्त्वरितं रथं प्रापय सारथे । यत्रैते बहवो घ्नन्ति सुबहून्राक्षसान्रणे ।।6.56.3।।

Meaning

Shloka 56.4Word-by-word available

एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः । द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ।।6.56.4।।

Meaning

Shloka 56.5Word-by-word available

एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् । एतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ।।6.56.5।।

Meaning

Shloka 56.6Word-by-word available

ततः प्रजवनाश्वेन रथेन रथिनां वरः । हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः ।।6.56.6।।

Meaning

Shloka 56.7Word-by-word available

न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे । अकम्पनशरैर्भग्नाः सर्व एव विदुद्रुवुः ।।6.56.7।।

Meaning

Shloka 56.8Word-by-word available

तान्मृत्युवशमापन्नानकम्पनवशं गतान् । समीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः ।।6.56.8।।

Meaning

Shloka 56.9Word-by-word available

तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः । समेत्य समरे वीराः संहृष्टाः पर्यवारयन् ।।6.56.9।।

Meaning

Shloka 56.10Word-by-word available

अवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः । बभूवुर्बलवन्तो हि बलवन्तं समाश्रिताः ।।6.56.10।।

Meaning