Sarga 59: Rāvaṇa Takes the Field

रावणाभिषेणनम्

rāvaṇābhiṣeṇanam — word-by-word gloss for all 148 shlokas.

Page 1 of 15148 shlokas in this sarga (verified max-across-sources)
Shloka 59.1Word-by-word available

तस्मिन्हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे । भीमायुधं सागरतुल्यवेगं विदुद्रुवे राक्षसराजसैन्यम् ।।6.59.1।।

Meaning

Shloka 59.2Word-by-word available

गत्वाथ रक्षोधिपतेः शशंसुः सेनापतिं पावकसूनुशस्तम् । तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोधवशं जगाम ।।6.59.2।।

Meaning

Shloka 59.3Word-by-word available

सङ्ख्ये प्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः । उवाच तान्नैरृतयोधमुख्यानिन्द्रो यथा चामरयोधमुख्यान् ।।6.59.3।।

Meaning

Shloka 59.4Word-by-word available

नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः । सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ।।6.59.4।।

Meaning

Shloka 59.5Word-by-word available

सोऽहं रिपुविनाशाय विजयायाविचारयन् । स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ।।6.59.5।।

Meaning

Shloka 59.6Word-by-word available

अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् । निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः ।।6.59.6।।

Meaning

Shloka 59.7Word-by-word available

अद्य सन्तर्पयिष्यामि पृथिवीं कपिशोणितैः । रामं च लक्ष्मणं चैव प्रेषयिष्ये यमक्षयम् ।।6.59.7।।

Meaning

Shloka 59.8Word-by-word available

स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजयुक्तम् । प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ।।6.59.8।।

Meaning

Shloka 59.9Word-by-word available

स शङ्खभेरीपणवप्रणादैरास्फोटितक्ष्वेलितसिंहनादैः । पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ।।6.59.9।।

Meaning

Shloka 59.10Word-by-word available

स शैलजीमूतनिकाशरूपैर्मांसादनैः पावकदीप्तनेत्रैः । बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र इवासुरेशः ।।6.59.10।।

Meaning