Sarga 28: The Valour of Mainda and Others Told
मैन्दादिपराक्रमाख्यानम्
maindādiparākramākhyānam — word-by-word gloss for all 45 shlokas.
Jump to a shloka · 45 in this sarga
एनं पश्य पुरा दृष्टं वानरं पुनरागतम् । ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः ।।6.28.11।।
Meaning
हनुमानिति विख्यातो लङ्घितो येन सागरः । कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः ।।6.28.12।।
Meaning
अनिवार्यगतिश्चैव यथा सततगः प्रभुः । उद्यन्तं भास्करं दृष्ट्वा बालः किल बुभुक्षितः ।।6.28.13।।
Meaning
त्रियोजनसहस्रं तु अध्वानमवतीर्य हि । आदित्यमाहरिष्यामि न मे क्षुत्प्रतियास्यति ।।6.28.14।।
Meaning
इति सञ्चिन्त्य मनसा पुरैष बलदर्पितः । अनाधृष्यतमं देवमपि देवर्षिदानवैः ।।6.28.15।।
Meaning
अनासाद्यैव पतितो भास्करोदयने गिरौ । पतितस्य कपेरस्य हनुरेका शिलातले ।।6.28.16।।
Meaning
किञ्चिद्भिन्ना दृढहनोर्हनुमानेष तेन वै । सत्यमागमयोगेन ममैष विदितो हरिः ।।6.28.17।।
Meaning
नास्य शक्यं बलं रूपं प्रभावो वाऽपि भाषितुम् । एष आशंसते लङ्कामेको मर्दितुमोजसा ।।6.28.18।।
Meaning
येन जाज्वल्यते सौम्य धूमकेतुस्तवाद्य वै । लङ्कायां निहितश्चापि कथं न स्मरसे कपिम् ।।6.28.19।।
Meaning
यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः । इक्ष्वाकूणामतिरथो लोके विख्यातपौरुषः ।।6.28.20।।
Meaning