Sarga 112: Vibhīṣaṇa's Lament
विभीषणविलापः
vibhīṣaṇavilāpaḥ — word-by-word gloss for all 26 shlokas.
Jump to a shloka · 26 in this sarga
भ्रातरं निहतं दृष्ट्वा शयानं रामनिर्जितम् । शोकवेगपरीतात्मा विललाप विभीषणः ।।6.112.1।।
Meaning
वीर विक्रान्तविख्यात विनीत नयकोविद । महार्हशयनोपेत किं शेषेऽद्य हतो भुवि ।।6.112.2।।
Meaning
विक्षिप्य दीर्घौ निश्चेष्टौ भुजावङ्गदभूषितौ । मुकुटेनापवृत्तेन भास्कराकारवर्चसा ।।6.112.3।।
Meaning
तदिदं वीर सम्प्राप्तं मया पूर्वं समीरितम् । काममोहपरीतस्य यत्ते न रुचितं वचः ।।6.112.4।।
Meaning
यन्न दर्पात्प्रहस्तो वा नेन्द्रजिन्नापरे जनाः । न कुम्भकर्णोऽतिरथो नातिकायो नरान्तकः ।।6.112.5।।
Meaning
न स्वयं त्वममन्येथास्तस्योदर्कोऽयमागतः । गतः सेतुः सुनीतानां गतो धर्मस्य विग्रहः ।।6.112.6।।
Meaning
गतः सत्त्वस्य सङ्क्षेपः प्रस्तावानां गतिर्गता । आदित्यः पतितो भूमौ मग्नस्तमसि चन्द्रमाः ।।6.112.7।।
Meaning
चित्रभानुः प्रशान्तार्चिर्व्यवसायो निरुद्यमः । अस्मिन्निपतिते भूमौ वीरे शस्त्रभृतां वरे ।।6.112.8।।
Meaning
किं शेषमिव लोकस्य हतवीरस्य साम्प्रतम् । रणे राक्षसशार्दूले प्रसुप्त इव पांसुषु ।।6.112.9।।
Meaning
धृतिप्रवालः प्रसहाग्र्यपुष्पः तपोबलः शौर्यनिबद्धमूलः । रणे महान्राक्षसराजवृक्षः संमर्दितो राघवमारुतेन ।।6.112.10।।
Meaning