Sarga 105: Rāvaṇa Reels in Battle
दशग्रीवविघूर्णनम्
daśagrīvavighūrṇanam — word-by-word gloss for all 31 shlokas.
Jump to a shloka · 31 in this sarga
स तेन तु तथा क्रोधात्काकुत्स्थेनार्दितो रणे । रावणः समरश्लाघी महाक्रोधमुपागमत् ।।6.105.1।।
Meaning
स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् । अभ्यर्दयत्सुसङ्क्रुद्धो राघवं परमाहवे ।।6.105.2।।
Meaning
बाणधारासहस्रैस्तैः सतोयद इवाम्बरात् । राघवं रावणो बाणैस्तटाकमिव पूरयत् ।।6.105.3।।
Meaning
पूरितः शरजालेन धनुर्मुक्तेन संयुगे । महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते ।।6.105.4।।
Meaning
स शरैः शरजालानि वारयन्समरे स्थितः । गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ।।6.105.5।।
Meaning
ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः । निजघानोरसि क्रुद्धो राघवस्य महात्मनः ।।6.105.6।।
Meaning
स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः । दृष्टः फुल्ल इवारण्ये सुमहान्किंशुकद्रुमः ।।6.105.7।।
Meaning
शराभिघातसंरब्धः सोऽपि जग्राह सायकान् । काकुत्स्थः सुमहातेजा युगान्तादित्यतेजसः ।।6.105.8।।
Meaning
ततोऽन्योन्यं सुसंरब्धावुभौ तौ रामरावणौ । शरान्धकारे समरे नोपालक्षयतां तदा ।।6.105.9।।
Meaning
ततः क्रोधसमाविष्टो रामो दशरथात्मजः । उवाच रावणं वीरः प्रहस्य परुषं वचः ।।6.105.10।।
Meaning