Sarga 86: Rāvaṇi's Forces Slaughtered
रावणिबलकदनम्
rāvaṇibalakadanam — word-by-word gloss for all 35 shlokas.
Jump to a shloka · 35 in this sarga
अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः । परेषामहितं वाक्यमर्थसाधकमब्रवीत् ।।6.86.1।।
Meaning
यदेतद्राक्षसानीकं मेघश्यामं विलोक्यते । एतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ।।6.86.2।।
Meaning
अस्यानीकस्य महतो भेदने यत लक्ष्मण । राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ।।6.86.3।।
Meaning
स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् । अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ।।6.86.4।।
Meaning
जहि वीर दुरात्मानं मायापरमधार्मिकम् । रावणिं क्रूरकर्माणं सर्वलोकभयावहम् ।।6.86.5।।
Meaning
विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः । ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ।।6.86.6।।
Meaning
ऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः । अभ्यधावन्त सहितास्तदनीकमवस्थितम् ।।6.86.7।।
Meaning
राक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः । उद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ।।6.86.8।।
Meaning
स सम्प्रहारस्तुमुलः सञ्जज्ञे कपिराक्षसाम् । शब्देन महता लङ्कां नादयन्वै समन्ततः ।।6.86.9।।
Meaning
शस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः । उद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ।।6.86.10।।
Meaning