Sarga 111: The Slaying of Rāvaṇa
पौलस्त्यवधः
paulastyavadhaḥ — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
अथ संस्मारयामास राघवं मातलिस्तदा । अजानन्निव किं वीर त्वमेनमनुवर्तसे ।।6.111.1।।
Meaning
विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो । विनाशकालः कथितो यः सुरैः सोऽद्य वर्तते ।।6.111.2।।
Meaning
ततः संस्मारितो रामस्तेन वाक्येन मातलेः । जग्राह स शरं दीप्तं निःश्वसन्तमिवोरगम् ।।6.111.3।।
Meaning
यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः । ब्रह्मदत्तं महाबाणममोघं युधि वीर्यवान् ।।6.111.4।।
Meaning
ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा । दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः ।।6.111.5।।
Meaning
यस्य वाजेषु पवनः फले पावकभास्करौ । शरीरमाकाशमयं गौरवे मेरुमन्दरौ ।।6.111.6।।
Meaning
जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् । तेजसा सर्वभूतानां कृतं भास्करवर्चसम् ।।6.111.7।।
Meaning
सधूममिव कालाग्निं दीप्तमाशीविषं यथा । परनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ।।6.111.8।।
Meaning
द्वाराणां परिघाणां च गिरीणामपि भेदनम् । नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् ।।6.111.9।।
Meaning
वज्रसारं महानादं नानासमितिदारणम् । सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ।।6.111.10।।
Meaning