Sarga 74: The Mountain of Herbs Brought
ओषधिपर्वतानयनम्
oṣadhiparvatānayanam — word-by-word gloss for all 77 shlokas.
Jump to a shloka · 77 in this sarga
तयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरिपुङ्गवानाम् । सुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किञ्चित्प्रतिपेदिरे ते ।।6.74.1।।
Meaning
ततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः । उवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ।।6.74.2।।
Meaning
मा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ । स्वयम्भुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजिदस्त्रजालैः ।।6.74.3।।
Meaning
तस्मै तु दत्तं परमास्त्रमेतत् स्वयम्भुवा ब्राह्मममोघवेगम् । तन्मानयन्तौ युधि राजपुत्रौ निपातितौ कोऽत्र विषादकालः ।।6.74.4।।
Meaning
ब्राह्ममस्त्रं ततो धीमान्मानयित्वा तु मारुतिः । विभीषणवचः श्रुत्वा हनुमांस्तमथाब्रवीत् ।।6.74.5।।
Meaning
एतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् । यो यो धारयते प्राणांस्तं तमाश्वासयावहै ।।6.74.6।।
Meaning
तावुभौ युगपद्वीरौ हनुमद्राक्षसोत्तमौ । उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ।।6.74.7।।
Meaning
भिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः । स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिस्ततस्ततः ।।6.74.8।।
Meaning
पतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम् । शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ।।6.74.9।।
Meaning
सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् । गवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ।।6.74.10।।
Meaning