Sarga 121: Sītā Received Back
सीताप्रतिग्रहः
sītāpratigrahaḥ — word-by-word gloss for all 22 shlokas.
Jump to a shloka · 22 in this sarga
एतच्छ्रुत्वा शुभं वाक्यं पितामहसमीरितम् । अङ्केनादाय वैदेहीमुत्पपात विभावसुः ।।6.121.1।।
Meaning
स विधूय चितां तां तु वैदेहीं हव्यवाहनः । उत्तस्थौ मूर्तिमानाशु गृहीत्वा जनकात्मजाम् ।।6.121.2।।
Meaning
तरुणादित्यसङ्काशां तप्तकाञ्चनभूषणाम् । रक्ताम्बरधरां बालां नीलकुञ्चितमूर्धजाम् ।।6.121.3।।
Meaning
अक्लिष्टमाल्याभरणां तथारूपां मनस्विनीम् । ददौ रामाय वैदेहीमङ्के कृत्वा विभावसुः ।।6.121.4।।
Meaning
अब्रवीच्च तदा रामं साक्षी लोकस्य पावकः । एषा ते राम वैदेही पापमस्यां न विद्यते ।।6.121.5।।
Meaning
नैव वाचा न मनसा नानुध्यानान्न चक्षुषा । सुवृत्ता वृत्तशौण्डीर न त्वामतिचचार ह ।।6.121.6।।
Meaning
रावणेनापनीतैषा वीर्योत्सिक्तेन रक्षसा । त्वया विरहिता दीना विवशा निर्जनाद्वनात् ।।6.121.7।।
Meaning
रुद्धा चान्तःपुरे गुप्ता त्वच्चित्ता त्वत्परायणा । रक्षिता राक्षसीसङ्घैर्विकृतैर्घोरदर्शनैः ।।6.121.8।।
Meaning
प्रलोभ्यमाना विविधं भर्त्स्यमाना च मैथिली । नाचिन्तयत तद्रक्षस्त्वद्गतेनान्तरात्मना ।।6.121.9।।
Meaning
विशुद्धभावां निष्पापां प्रतिगृह्णीष्व राघव । न किञ्चिदभिधातव्यमहमाज्ञापयामि ते ।।6.121.10।।
Meaning