Sarga 117: Sītā Beholds Her Husband's Face
सीताभर्तृमुखोदीक्षणम्
sītābhartṛmukhodīkṣaṇam — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
स उवाच महाप्राज्ञमभिगम्य प्लवङ्गमः । रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ।।6.117.1।।
Meaning
यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः । तां देवीं शोकसन्तप्तां मैथिलीं द्रष्टुमर्हसि ।।6.117.2।।
Meaning
सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा । मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ।।6.117.3।।
Meaning
पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तया । भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् ।।6.117.4।।
Meaning
एवमुक्तो हनुमता रामो धर्मभृतां वरः । अगच्छत्सहसा ध्यानमीषद्बाष्पपरिप्लुतः ।।6.117.5।।
Meaning
दीर्घमुष्णं विनिश्वस्य मेदिनीमवलोकयन् । उवाच मेघसङ्काशं विभीषणमुपस्थितम् ।।6.117.6।।
Meaning
दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् । इह सीतां शिरःस्नातामुपस्थापय मा चिरम् ।।6.117.7।।
Meaning
एवमुक्तस्तु रामेण त्वरमाणो विभीषणः । प्रविश्यान्तःपुरं सीतां स्वाभिः स्त्रीभिरचोदयत् ।।6.117.8।।
Meaning
ततः सीतां महाभागां दृष्ट्वोवाच विभीषणः । मूर्ध्नि बद्धाञ्जलिः श्रीमान्विनीतो राक्षसेश्वरः ।।6.117.9।।
Meaning
दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता । यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ।।6.117.10।।
Meaning