Sarga 87: Vibhīṣaṇa and Indrajit Revile Each Other
विभीषणरावणिपरस्परनिन्दा
vibhīṣaṇarāvaṇiparasparanindā — word-by-word gloss for all 31 shlokas.
Jump to a shloka · 31 in this sarga
एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः । धनुष्पाणिनमादाय त्वरमाणो जगाम ह ।।6.87.1।।
Meaning
अविदूरं ततो गत्वा प्रविश्य च महद्वनम् । दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ।।6.87.2।।
Meaning
नीलजीमूतसङ्काशं न्यग्रोधं भीमदर्शनम् । तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ।।6.87.3।।
Meaning
इहोपहारं भूतानां बलवान्रावणात्मजः । उपहृत्य ततः पश्चात्सङ्ग्राममभिवर्तते ।।6.87.4।।
Meaning
अदृश्यः सर्वभूतानां ततो भवति राक्षसः । निहन्ति समरे शत्रून्बध्नाति च शरोत्तमैः ।।6.87.5।।
Meaning
तमप्रविष्टन्यग्रोधं बलिनं रावणात्मजम् । विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् ।।6.87.6।।
Meaning
तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः । बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः ।।6.87.7।।
Meaning
स रथेनाग्निवर्णेन बलवान्रावणात्मजः । इन्द्रजित्कवची धन्वी सध्वजः प्रत्यदृश्यत ।।6.87.8।।
Meaning
तमुवाच महातेजाः पौलस्त्यमपराजितम् । समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ।।6.87.9।।
Meaning
एवमुक्तो महातेजा मनस्वी रावणात्मजः । अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ।।6.87.10।।
Meaning