Sarga 95: The Lament of the Rākṣasīs

राक्षसीविलापः

rākṣasīvilāpaḥ — word-by-word gloss for all 41 shlokas.

Page 1 of 541 shlokas in this sarga (verified max-across-sources)
Shloka 95.1Word-by-word available

तानि तानि सहस्राणि सारोहाणां च वाजिनाम् । रथानां त्वग्निवर्णानां सध्वजानां सहस्रशः ।।6.95.1।।

Meaning

Shloka 95.2Word-by-word available

राक्षसानां सहस्राणि गदापरिघयोधिनाम् । काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम् ।।6.95.2।।

Meaning

Shloka 95.3Word-by-word available

निहतानि शरैस्तीक्ष्णैस्तप्तकाञ्चनभूषणैः । रावणेन प्रयुक्तानि रामेणाक्लिष्टकर्मणा ।।6.95.3।।

Meaning

Shloka 95.4Word-by-word available

दृष्ट्वा श्रुत्वा च सम्भ्रान्ता हतशेषा निशाचराः । राक्षसीश्च समागम्य दीनाश्चिन्तापरिप्लुताः ।।6.95.4।।

Meaning

Shloka 95.5Word-by-word available

विधवा हतपुत्राश्च क्रोशन्त्यो हतबान्धवाः । राक्षस्यः सह सङ्गम्य दुःखार्ताः पर्यदेवयन् ।।6.95.5।।

Meaning

Shloka 95.6Word-by-word available

कथं शूर्पणखा वृद्धा कराला निर्णतोदरी । आससाद वने रामं कन्दर्पमिव रूपिणम् ।।6.95.6।।

Meaning

Shloka 95.7Word-by-word available

सुकुमारं महासत्त्वं सर्वभूतहिते रतम् । तं दृष्ट्वा लोकनिन्द्या सा हीनरूपा प्रकामिता ।।6.95.7।।

Meaning

Shloka 95.8Word-by-word available

कथं सर्वगुणैर्हीना गुणवन्तं महौजसम् । सुमुखं दुर्मुखी रामं कामयामास राक्षसी ।।6.95.8।।

Meaning

Shloka 95.9Word-by-word available

जनस्यास्याल्पभाग्यत्वाद्वलिनी श्वेतमूर्धजा । अकार्यमपहास्यं च सर्वलोकविगर्हितम् ।।6.95.9।।

Meaning

Shloka 95.10Word-by-word available

राक्षसानां विनाशाय दूषणस्य खरस्य च । चकाराप्रतिरूपा सा राघवस्य प्रधर्षणम् ।।6.95.10।।

Meaning