Sarga 120: Brahmā's Hymn to Rāma
ब्रह्मकृतरामस्तवः
brahmakṛtarāmastavaḥ — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
ततो हि दुर्मना रामः श्रुत्वैवं वदतां गिरः । दध्यौ मुहूर्तं धर्मात्मा बाष्पव्याकुललोचनः ।।6.120.1।।
Meaning
ततो वैश्रवणो राजा यमश्चामित्रकर्शनः । सहस्राक्षो महेन्द्रश्च वरुणश्च परन्तपः ।।6.120.2।।
Meaning
षडर्धनयनः श्रीमान्महादेवो वृषध्वजः । कर्ता सर्वस्य लोकस्य ब्रह्मा ब्रह्मविदां वरः ।।6.120.3।।
Meaning
एते सर्वे समागम्य विमानैः सूर्यसन्निभैः । आगम्य नगरीं लङ्कामभिजग्मुश्च राघवम् ।।6.120.4।।
Meaning
ततः सहस्ताभरणान्प्रगृह्य विपुलान्भुजान् । अब्रुवंस्त्रिदशश्रेष्ठाः प्राञ्जलिं राघवं स्थितम् ।।6.120.5।।
Meaning
कर्ता सर्वस्य लोकस्य श्रेष्ठो ज्ञानवतां वरः । उपेक्षसे कथं सीतां पतन्तीं हव्यवाहने ।।6.120.6।।
Meaning
कथं देवगणश्रेष्ठमात्मानं नावबुध्यसे । ऋतधामा वसुः पूर्वं वसूनां त्वं प्रजापतिः ।।6.120.7।।
Meaning
त्रयाणां त्वं हि लोकानामादिकर्ता स्वयम्प्रभुः । रुद्राणामष्टमो रुद्रः साध्यानामसि पञ्चमः ।।6.120.8।।
Meaning
अश्विनौ चापि ते कर्णौ चन्द्रसूर्यौ च चक्षुषी । अन्ते चादौ च लोकानां दृश्यसे त्वं परन्तप ।।6.120.9।।
Meaning
उपेक्षसे च वैदेहीं मानुषः प्राकृतो यथा । इत्युक्तो लोकपालैस्तैः स्वामी लोकस्य राघवः ।।6.120.10।।
Meaning