Sarga 127: Bharadvāja's Hermitage
भरद्वाजामन्त्रणम्
bharadvājāmantraṇam — word-by-word gloss for all 23 shlokas.
Jump to a shloka · 23 in this sarga
पूर्णे चतुर्दशे वर्षे पञ्चम्यां लक्ष्मणाग्रजः । भरद्वाजाश्रमं प्राप्य ववन्दे नियतो मुनिम् ।।6.127.1।।
Meaning
सोऽपृच्छदभिवाद्यैनं भरद्वाजं तपोधनम् । शृणोषि कच्चिद्भगवन्सुभिक्षानामयं पुरे ।।6.127.2।।
Meaning
कच्चिच्च युक्तो भरतो जीवन्त्यपि च मातरः । एवमुक्तस्तु रामेण भरद्वाजो महामुनिः ।।6.127.3।।
Meaning
प्रत्युवाच रघुश्रेष्ठं स्मितपूर्वं प्रहृष्टवत् । पङ्कदिग्धस्तु भरतो जटिलस्त्वां प्रतीक्षते ।।6.127.4।।
Meaning
पादुके ते पुरस्कृत्य सर्वं च कुशलं गृहे । त्वां पुरा चीरवसनं प्रविशन्तं महावनम् ।।6.127.5।।
Meaning
स्त्रीतृतीयं च्युतं राज्याद्धर्मकामं च केवलम् । पदातिं त्यक्तसर्वस्वं पितुर्वचनकारिणम् ।।6.127.6।।
Meaning
सर्वभोगैः परित्यक्तं स्वर्गच्युतमिवामरम् । दृष्ट्वा तु करुणा पूर्वं ममासीत्समितिञ्जय ।।6.127.7।।
Meaning
कैकेयीवचने युक्तं वन्यमूलफलाशिनम् । साम्प्रतं सुसमृद्धार्थं समित्रगणबान्धवम् ।।6.127.8।।
Meaning
समीक्ष्य विजितारिं त्वां मम प्रीतिरनुत्तमा । सर्वं च सुखदुःखं ते विदितं मम राघव ।।6.127.9।।
Meaning
यत्त्वया विपुलं प्राप्तं जनस्थानवधादिकम् । ब्राह्मणार्थे नियुक्तस्य रक्षितुः सर्वतापसान् ।।6.127.10।।
Meaning