← Yuddha Kāṇḍa

Sarga 127: Bharadvāja's Hermitage

भरद्वाजामन्त्रणम्

bharadvājāmantraṇam — word-by-word gloss for all 23 shlokas.

Jump to a shloka · 23 in this sarga

Page 2 of 323 shlokas in this sarga (verified max-across-sources)
Shloka 127.11Word-by-word available

रावणेन हृता भार्या बभूवेयमनिन्दिता । मारीचदर्शनं चैव सीतोन्मथनमेव च ।।6.127.11।।

Meaning

Shloka 127.12Word-by-word available

कबन्धदर्शनं चैव पम्पाभिगमनं तथा । सुग्रीवेण च ते सख्यं यच्च वाली हतस्त्वया ।।6.127.12।।

Meaning

Shloka 127.13Word-by-word available

मार्गणं चैव वैदेह्याः कर्म वातात्मजस्य च । विदितायां च वैदेह्यां नलसेतुर्यथा कृतः ।।6.127.13।।

Meaning

Shloka 127.14Word-by-word available

यथा वा दीपिता लङ्का प्रहृष्टैर्हरियूथपैः । सपुत्रबान्धवामात्यः सबलः सहवाहनः ।।6.127.14।।

Meaning

Shloka 127.15Word-by-word available

यथा विनिहतः सङ्ख्ये रावणो देवकण्टकः । समागमश्च त्रिदशैर्यथा दत्तश्च ते वरः ।।6.127.15।।

Meaning

Shloka 127.16Word-by-word available

सर्वं ममैतद्विदितं तपसा धर्मवत्सल । सम्पतन्ति च मे शिष्याः प्रवृत्त्याख्याः पुरीमितः । मित्राणि धनधान्यानि प्रजानां सम्मतानीव ।।6.127.16।।

Meaning

Shloka 127.17Word-by-word available

जननी जन्मभूमिश्च स्वर्गादपि गरीयसी । अहमप्यत्र ते दद्मि वरं शस्त्रभृतां वर ।।6.127.17।।

Meaning

Shloka 127.18Word-by-word available

अर्घ्यमद्य गृहाणेदमयोध्यां श्वो गमिष्यसि । तस्य तच्छिरसा वाक्यं प्रतिगृह्य नृपात्मजः ।।6.127.18।।

Meaning

Shloka 127.19Word-by-word available

बाढमित्येव संहृष्टो धीमान्वरमयाचत । अकाले फलिनो वृक्षाः सर्वे चापि मधुस्रवाः ।।6.127.19।।

Meaning

Shloka 127.20Word-by-word available

फलान्यमृतकल्पानि बहूनि विविधानि च । भवन्तु मार्गे भगवन्नयोध्यां प्रति गच्छतः ।।6.127.20।।

Meaning