Sarga 89: Lakṣmaṇa Spurred On
सौमित्रिसन्धुक्षणम्
saumitrisandhukṣaṇam — word-by-word gloss for all 42 shlokas.
Jump to a shloka · 42 in this sarga
ततः शरं दाशरथिः सन्धायामित्रकर्शनः । ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ।।6.89.1।।
Meaning
तस्य ज्यातलनिर्घोषं स श्रुत्वा रावणात्मजः । विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ।।6.89.2।।
Meaning
तं विवर्णमुखं दृष्ट्वा राक्षसं रावणात्मजम् । सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः ।।6.89.3।।
Meaning
निमित्तान्यनुपश्यामि यान्यस्मिन्रावणात्मजे । त्वर तेन महाबाहो भग्न एष न संशयः ।।6.89.4।।
Meaning
ततः सन्धाय सौमित्रिर्बाणानग्निशिखोपमान् । मुमोच निशितांस्तस्मिन् सर्पानिव महाविषान् ।।6.89.5।।
Meaning
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः । मुहूर्तमभवन्मूढः सर्वसङ्क्षुभितेन्द्रियः ।।6.89.6।।
Meaning
उपलभ्य मुहूर्तेन सञ्ज्ञां प्रत्यागतेन्द्रियः । ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ।।6.89.7।।
Meaning
सोऽभिचक्राम सौमित्रिं रोषात्संरक्तलोचनः । अब्रवीच्चैनमासाद्य पुनः स परुषं वचः ।।6.89.8।।
Meaning
किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम् । निबद्धस्त्वं सह भ्रात्रा यदा भुवि विवेष्टसे ।।6.89.9।।
Meaning
युवां खलु महायुद्धे शक्राशनिसमैः शरैः । शायितौ प्रथमं भूमौ विसञ्ज्ञौ सपुरःसरौ ।।6.89.10।।
Meaning