Sarga 84: Indrajit's Illusion Explained
इन्द्रजिन्मायाविवरणम्
indrajinmāyāvivaraṇam — word-by-word gloss for all 22 shlokas.
Jump to a shloka · 22 in this sarga
राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले । निक्षिप्य गुल्मान्स्वस्थाने तत्रागच्छद्विभीषणः ।।6.84.1।।
Meaning
नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः । नीलाञ्जनचयाकारैर्मातङ्गैरिव यूथपः ।।6.84.2।।
Meaning
सोऽभिगम्य महात्मानं राघवं शोकलालसम् । वानरांश्चैव ददृशे बाष्पपर्याकुलेक्षणान् ।।6.84.3।।
Meaning
राघवं च महात्मानमिक्ष्वाकुकुलनन्दनम् । ददर्श मोहमापन्नं लक्ष्मणस्याङ्कमाश्रितम् ।।6.84.4।।
Meaning
व्रीडितं शोकसन्तप्तं दृष्ट्वा रामं विभीषणः । अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत् ।।6.84.5।।
Meaning
विभीषणमुखं दृष्ट्वा सुग्रीवं तांश्च वानरान् । लक्ष्मणोवाच मन्दार्थमिदं बाष्पपरिप्लुतः ।।6.84.6।।
Meaning
हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः । हनुमद्वचनात्सौम्य ततो मोहमुपागतः ।।6.84.7।।
Meaning
कथयन्तं तु सौमित्रिं सन्निवार्य विभीषणः । पुष्कलार्थमिदं वाक्यं विसञ्ज्ञं राममब्रवीत् ।।6.84.8।।
Meaning
मनुजेन्द्रार्तरूपेण यदुक्तं च हनूमता । तदयुक्तमहं मन्ये सागरस्येव शोषणम् ।।6.84.9।।
Meaning
अभिप्रायं तु जानामि रावणस्य दुरात्मनः । सीतां प्रति महाबाहो न च घातं करिष्यति ।।6.84.10।।
Meaning