Sarga 100: Rāma and Rāvaṇa Trade Divine Weapons
रामरावणास्त्रपरम्परा
rāmarāvaṇāstraparamparā — word-by-word gloss for all 51 shlokas.
Jump to a shloka · 51 in this sarga
महोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ । तस्मिंश्च निहते वीरे विरूपाक्षे महाबले ।।6.100.1।।
Meaning
आविवेश महान्क्रोधो रावणं तं महामृधे । सूतं सञ्चोदयामास वाक्यं चेदमुवाच ह ।।6.100.2।।
Meaning
निहतानाममात्यानां रुद्धस्य नगरस्य च । दुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ ।।6.100.3।।
Meaning
रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् । प्रशाखा यस्य सुग्रीवो जाम्बवान्कुमुदो नलः ।।6.100.4।।
Meaning
मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः । हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः ।।6.100.5।।
Meaning
स दिशो दश घोषेण रथस्यातिरथो महान् । नादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत ।।6.100.6।।
Meaning
पूरिता तेन शब्देन सनदीगिरिकानना । सञ्चचाल मही सर्वा सवराहमृगद्विपा ।।6.100.7।।
Meaning
तामसं स महाघोरं चकारास्त्रं सुदारुणम् । निर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः ।।6.100.8।।
Meaning
उत्पपात रजो घोरं तैर्भग्नैः सम्प्रधावितैः । न हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ।।6.100.9।।
Meaning
तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः । दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ।।6.100.10।।
Meaning