Sarga 85: The March on Nikumbhilā
निकुम्भिलाभियानम्
nikumbhilābhiyānam — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
तस्य तद्वचनं श्रुत्वा राघवः शोककर्शितः । नोपधारयते व्यक्तं यदुक्तं तेन रक्षसा ।।6.85.1।।
Meaning
ततो धैर्यमवष्टभ्य रामः परपुरञ्जयः । विभीषणमुपासीनमुवाच कपिसन्निधौ ।।6.85.2।।
Meaning
नैरृताधिपते वाक्यं यदुक्तं ते विभीषण । भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ।।6.85.3।।
Meaning
राघवस्य वचः श्रुत्वा वाक्यं वाक्यविशारदः । यत्तत्पुनरिदं वाक्यं बभाषे स विभीषणः ।।6.85.4।।
Meaning
यथाज्ञप्तं महाबाहो त्वया गुल्मनिवेशनम् । तत्तथाऽनुष्ठितं वीर त्वद्वाक्यसमनन्तरम् ।।6.85.5।।
Meaning
तान्यनीकानि सर्वाणि विभक्तानि समन्ततः । विन्यस्ता यूथपाश्चैव यथान्यायं विभागशः ।।6.85.6।।
Meaning
भूयस्तु मम विज्ञाप्यं तच्छृणुष्व महायशः । त्वय्यकारणसन्तप्ते सन्तप्तहृदया वयम् ।।6.85.7।।
Meaning
त्यज राजन्निमं शोकं मिथ्या सन्तापमागतम् । तदियं त्यज्यतां चिन्ता शत्रुहर्षविवर्धनी ।।6.85.8।।
Meaning
उद्यमः क्रियतां वीर हर्षः समुपसेव्यताम् । प्राप्तव्या यदि ते सीता हन्तव्याश्च निशाचराः ।।6.85.9।।
Meaning
रघुनन्दन वक्ष्यामि श्रूयतां मे हितं वचः । साध्वयं यातु सौमित्रिर्बलेन महता वृतः ।।6.85.10।।
Meaning