Sarga 115: Vibhīṣaṇa Crowned
विभीषणाभिषेकः
vibhīṣaṇābhiṣekaḥ — word-by-word gloss for all 25 shlokas.
Jump to a shloka · 25 in this sarga
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः । जग्मुः स्वैःस्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ।।6.115.1।।
Meaning
रावणस्य वधं घोरं राघवस्य पराक्रमम् । सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ।।6.115.2।।
Meaning
अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च । पतिव्रतात्वं सीताया हनूमति पराक्रमम् । कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ।।6.115.3।।
Meaning
राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् । अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् ।।6.115.4।।
Meaning
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः । दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ।।6.115.5।।
Meaning
तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे । राघवः परमप्रीतः सुग्रीवं परिषस्वजे ।।6.115.6।।
Meaning
परिष्वज्य च सुग्रीवं लक्ष्मणेन प्रचोदितः । पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् ।।6.115.7।।
Meaning
अब्रवीच्च तदा रामः समीपपरिवर्तिनम् । सौमित्रिं सत्यसम्पन्नं लक्ष्मणं दीप्ततेजसम् ।।6.115.8।।
Meaning
विभीषणमिमं सौम्य लङ्कायामभिषेचय । अनुरक्तं च भक्तं च मम चैवोपकारिणम् ।।6.115.9।।
Meaning
एष मे परमः कामो यदीमं रावणानुजम् । लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् ।।6.115.10।।
Meaning