Sarga 82: Hanumān and the Monkeys Despair
हनूमदादिनिर्वेदः
hanūmadādinirvedaḥ — word-by-word gloss for all 28 shlokas.
Jump to a shloka · 28 in this sarga
श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमस्वनम् । वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ।।6.82.1।।
Meaning
तानुवाच ततः सर्वान्हनुमान्मारुतात्मजः । विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक् ।।6.82.2।।
Meaning
कस्माद्विषण्णवदना विद्रवध्वे प्लवङ्गमाः । त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम् ।।6.82.3।।
Meaning
पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे । शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ।।6.82.4।।
Meaning
एवमुक्ताः सुसंहृष्टा वायुपुत्रेण वानराः । शैलशृङ्गाण्यगांश्चैव जगृहुर्हृष्टमानसाः ।।6.82.5।।
Meaning
अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः । परिवार्य हनूमन्तमन्वयुश्च महाहवे ।।6.82.6।।
Meaning
स तैर्वानरमुख्यैश्च हनुमान्सर्वतो वृतः । हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ।।6.82.7।।
Meaning
स राक्षसानां कदनं चकार सुमहाकपिः । वृतो वानरसैन्येन कालान्तकयमोपमः ।।6.82.8।।
Meaning
स तु कोपेन चाविष्टः शोकेन च महाकपिः । हनुमान्रावणिरथेऽपातयन्महतीं शिलाम् ।।6.82.9।।
Meaning
तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा । विधेयाश्वसमायुक्तः सुदूरमपवाहितः ।।6.82.10।।
Meaning