Sarga 72: Rāvaṇa's Grief Revealed
रावणमन्युशल्याविष्कारः
rāvaṇamanyuśalyāviṣkāraḥ — word-by-word gloss for all 19 shlokas.
Jump to a shloka · 19 in this sarga
अतिकायं हतं श्रुत्वा लक्ष्मणेन महौजसा । उद्वेगमगमद्राजा वचनं चेदमब्रवीत् ।।6.72.1।।
Meaning
धूम्राक्षः परमामर्षी धन्वी शस्त्रभृतां वरः । अकम्पनः प्रहस्तश्च कुम्भकर्णस्तथैव च ।।6.72.2।।
Meaning
एते महाबला वीरा राक्षसा युद्धकाङ्क्षिणः । जेतारः परसैन्यानां परैर्नित्यापराजिताः ।।6.72.3।।
Meaning
निहतास्ते महावीर्या रामेणाक्लिष्टकर्मणा । राक्षसाः सुमहाकाया नानाशस्त्रविशारदाः ।।6.72.4।।
Meaning
अन्ये च बहवः शूरा महात्मानो निपातिताः । प्रख्यातबलवीर्येण पुत्रेणेन्द्रजिता मम ।।6.72.5।।
Meaning
यौ हि तौ भ्रातरौ वीरौ बद्धौ दत्तवरैः शरैः । यन्न शक्यं सुरैः सर्वैरसुरैर्वा महाबलैः ।।6.72.6।।
Meaning
मोक्तुं तद्बन्धनं घोरं यक्षगन्धर्वकिन्नरैः । तन्न जाने प्रभावैर्वा मायया मोहनेन वा ।।6.72.7।।
Meaning
शरबन्धाद्विमुक्तौ तौ भ्रातरौ रामलक्ष्मणौ । ये योधा निर्गताः शूरा राक्षसा मम शासनात् ।।6.72.8।।
Meaning
ते सर्वे निहता युद्धे वानरैः सुमहाबलैः । तं न पश्याम्यहं युद्धे योऽद्य रामं सलक्ष्मणम् ।।6.72.9।।
Meaning
शासयेत्सबलं वीरं ससुग्रीवविभीषणम् । अहो नु बलवान्रामो महदस्त्रबलं च वै ।।6.72.10।।
Meaning