Sarga 110: Rāvaṇa's Hundred and One Heads Severed

रावणैकशतशिरश्छेदनम्

rāvaṇaikaśataśiraśchedanam — word-by-word gloss for all 39 shlokas.

Page 1 of 439 shlokas in this sarga (verified max-across-sources)
Shloka 110.1Word-by-word available

तौ तदा युध्यमानौ तु समरे रामरावणौ । ददृशुः सर्वभूतानि विस्मितेनान्तरात्मना ।।6.110.1।।

Meaning

Shloka 110.2Word-by-word available

अर्दयन्तौ तु समरे तयोस्तौ स्यन्दनोत्तमौ । परस्परमभिक्रुद्धौ परस्परमभिद्रुतौ ।।6.110.2।।

Meaning

Shloka 110.3Word-by-word available

परस्परवधे युक्तौ घोररूपौ बभूवतुः । मण्डलानि च वीथीश्च गतप्रत्यागतानि च ।।6.110.3।।

Meaning

Shloka 110.4Word-by-word available

दर्शयन्तौ बहुविधां सूतसारथ्यजां गतिम् । अर्दयन्रावणं रामो राघवं चापि रावणः ।।6.110.4।।

Meaning

Shloka 110.5Word-by-word available

गतिवेगं समापन्नौ प्रवर्तननिवर्तने । क्षिपतोः शरजालानि तयोस्तौ स्यन्दनोत्तमौ ।।6.110.5।।

Meaning

Shloka 110.6Word-by-word available

चेरतुः संयुगमहीं सासारौ जलदौ यथा । दर्शयित्वा तथा तौ तु गतिं बहुविधां रणे ।।6.110.6।।

Meaning

Shloka 110.7Word-by-word available

परस्परस्याभिमुखौ पुनरेवावतस्थतुः । धुरं धुरेण रथयोर्वक्त्रं वक्त्रेण वाजिनाम् ।।6.110.7।।

Meaning

Shloka 110.8Word-by-word available

पताकाश्च पताकाभिः समेयुः स्थितयोस्तदा । रावणस्य ततो रामो धनुर्मुक्तैः शितैः शरैः ।।6.110.8।।

Meaning

Shloka 110.9Word-by-word available

चतुर्भिश्चतुरो दीप्तैर्हयान्प्रत्यपसर्पयत् । स क्रोधवशमापन्नो हयानामपसर्पणे ।।6.110.9।।

Meaning

Shloka 110.10Word-by-word available

मुमोच निशितान्बाणान्राघवाय निशाचरः । सोऽतिविद्धो बलवता दशग्रीवेण राघवः ।।6.110.10।।

Meaning