Sarga 93: Rāvaṇa Turned from Killing Sītā

सीताहननोद्यमनिवृत्तिः

sītāhananodyamanivṛttiḥ — word-by-word gloss for all 68 shlokas.

Page 1 of 768 shlokas in this sarga (verified max-across-sources)
Shloka 93.1Word-by-word available

ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितं हतम् । आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ।।6.93.1।।

Meaning

Shloka 93.2Word-by-word available

युद्धे हतो महाराज लक्ष्मणेन तवात्मजः । विभीषणसहायेन मिषतां नो महाद्युतिः ।।6.93.2।।

Meaning

Shloka 93.3Word-by-word available

शूरः शूरेण सङ्गम्य संयुगेष्वपराजितः । लक्ष्मणेन हतः शूरः पुत्रस्तु विबुधेन्द्रजित् ।।6.93.3।।

Meaning

Shloka 93.4Word-by-word available

गतः स परमान्लोकान् शरैः सन्ताप्य लक्ष्मणम् । स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् ।।6.93.4।।

Meaning

Shloka 93.5Word-by-word available

घोरमिन्द्रजितः सङ्ख्ये कश्मलं चाविशन्महत् । उपलभ्य चिरात्सञ्ज्ञां राजा राक्षसपुङ्गवः ।।6.93.5।।

Meaning

Shloka 93.6Word-by-word available

पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः । हा राक्षसचमूमुख्य मम वत्स महारथ ।।6.93.6।।

Meaning

Shloka 93.7Word-by-word available

जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः । ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि ।।6.93.7।।

Meaning

Shloka 93.8Word-by-word available

मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि । अद्य वैवस्वतो राजा भूयो बहुमतो मम ।।6.93.8।।

Meaning

Shloka 93.9Word-by-word available

येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा । एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ।।6.93.9।।

Meaning

Shloka 93.10Word-by-word available

यः कृते हन्यते भर्तुः स पुमान् स्वर्गमृच्छति । अद्य देवगणाः सर्वे लोकपालास्तथर्षयः ।।6.93.10।।

Meaning