Sarga 93: Rāvaṇa Turned from Killing Sītā
सीताहननोद्यमनिवृत्तिः
sītāhananodyamanivṛttiḥ — word-by-word gloss for all 68 shlokas.
Jump to a shloka · 68 in this sarga
हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः । अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना ।।6.93.11।।
Meaning
एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे । अद्य नैरृतकन्यानां श्रोष्याम्यन्तःपुरे रवम् ।।6.93.12।।
Meaning
करेणुसङ्घस्य यथा निनादं गिरिगह्वरे । यौवराज्यं च लङ्कां च रक्षांसि च परन्तप ।।6.93.13।।
Meaning
मातरं मां च भार्यां च क्व गतोऽसि विहाय नः । मम नाम त्वया वीर गतस्य यमसादनम् ।।6.93.14।।
Meaning
प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे । स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे ।।6.93.15।।
Meaning
मम शल्यमनुद्धृत्य क्व गतोऽसि विहाय नः । एवमादिविलापार्तं रावणं राक्षसाधिपम् ।।6.93.16।।
Meaning
आविवेश महान्कोपः पुत्रव्यसनसम्भवः । प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः ।।6.93.17।।
Meaning
दीप्तं सन्दीपयामासुर्घर्मेऽर्कमिव रश्मयः । ललाटे भ्रुकुटीभिश्च सङ्गताभिर्व्यारोचत ।।6.93.18।।
Meaning
युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः । कोपाद्विजृम्भमाणस्य वक्त्राद्व्यक्तमभिज्वलन् ।।6.93.19।।
Meaning
उत्पपात स भूयोऽग्निर्वृत्रस्य वदनादिव । स पुत्रवधसन्तप्तः शूरः क्रोधवशं गतः ।।6.93.20।।
Meaning