Sarga 104: Rāvaṇa's Spear Shattered
रावणशूलभङ्गः
rāvaṇaśūlabhaṅgaḥ — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः । सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी ।।6.104.1।।
Meaning
सिंहशार्दूलवान् शैलः सञ्चचाल चलद्रुमः । बभूव चातिक्षुभितः समुद्रः सरितां पतिः ।।6.104.2।।
Meaning
खगाश्च खरनिर्घोषा गगने परुषा घनाः । औत्पातिकानि नर्दन्तः समन्तात्परिचक्रमुः ।।6.104.3।।
Meaning
रामं दृष्ट्वा सुसङ्क्रुद्धमुत्पातांश्च सुदारुणान् । वित्रेसुः सर्वभूतानि रावणस्याभवद्भयम् ।।6.104.4।।
Meaning
विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः । ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ।।6.104.5।।
Meaning
ददृशुस्ते महायुद्धं लोकसंवर्तसंस्थितम् । नानाप्रहरणैर्भीमैः शूरयोः सम्प्रयुद्ध्यतोः ।।6.104.6।।
Meaning
ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः । प्रेक्षमाणा महद्युद्धं वाक्यं भक्त्या प्रहृष्टवत् ।।6.104.7।।
Meaning
दशग्रीवं जयेत्याहुरसुराः समवस्थिताः । देवा राममथोचुस्ते त्वं जयेति पुनः पुनः ।।6.104.8।।
Meaning
एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः । प्रहर्तुकामो दुष्टात्मा स्पृशन्प्रहरणं महत् ।।6.104.9।।
Meaning
वज्रसारं महानादं सर्वशत्रुनिबर्हणम् । शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् ।।6.104.10।।
Meaning