Sarga 81: The Illusory Sītā Slain

मायासीतावधः

māyāsītāvadhaḥ — word-by-word gloss for all 36 shlokas.

Page 1 of 436 shlokas in this sarga (verified max-across-sources)
Shloka 81.1Word-by-word available

विज्ञाय तु मनस्तस्य राघवस्य महात्मनः । सन्निवृत्याहवात्तस्मात्संविवेश पुरं ततः ।।6.81.1।।

Meaning

Shloka 81.2Word-by-word available

सोऽनुस्मृत्य वधं तेषां राक्षसानां तरस्विनाम् । क्रोधताम्रेक्षणः शूरो निर्जगाम महाद्युतिः ।।6.81.2।।

Meaning

Shloka 81.3Word-by-word available

स पश्चिमेन द्वारेण निर्ययौ राक्षसैर्वृतः । इन्द्रजित्तु महावीर्यः पौलस्त्यो देवकण्टकः ।।6.81.3।।

Meaning

Shloka 81.4Word-by-word available

इन्द्रजित्तु ततो दृष्ट्वा भ्रातरौ रामलक्ष्मणौ । रणायाभ्युद्यतौ वीरौ मायां प्रादुष्करोत्तदा ।।6.81.4।।

Meaning

Shloka 81.5Word-by-word available

इन्द्रजित्तु रथे स्थाप्य सीतां मायामयीं ततः । बलेन महतावृत्य तस्या वधमरोचयत् ।।6.81.5।।

Meaning

Shloka 81.6Word-by-word available

मोहनार्थं तु सर्वेषां बुद्धिं कृत्वा सुदुर्मतिः । हन्तुं सीतां व्यवसितो वानराभिमुखो ययौ ।।6.81.6।।

Meaning

Shloka 81.7Word-by-word available

तं दृष्ट्वा त्वभिनिर्यान्तं नगर्याः काननौकसः । उत्पेतुरभिसङ्क्रुद्धाः शिलाहस्ता युयुत्सवः ।।6.81.7।।

Meaning

Shloka 81.8Word-by-word available

हनुमान्पुरतस्तेषां जगाम कपिकुञ्जरः । प्रगृह्य सुमहच्छृङ्गं पर्वतस्य दुरासदम् ।।6.81.8।।

Meaning

Shloka 81.9Word-by-word available

स ददर्श हतानन्दां सीतामिन्द्रजितो रथे । एकवेणीधरां दीनामुपवासकृशाननाम् ।।6.81.9।।

Meaning

Shloka 81.10Word-by-word available

परिक्लिष्टैकवसनाममृजां राघवप्रियाम् । रजोमलाभ्यामालिप्तैः सर्वगात्रैर्वरस्त्रियम् ।।6.81.10।।

Meaning