Sarga 119: Sītā Enters the Fire
हुताशनप्रवेशः
hutāśanapraveśaḥ — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
प्रेषितस्ते यदा वीरो हनुमानवलोककः । लङ्कास्थाऽहं त्वया वीर किं तदा न विसर्जिता ।।6.119.11।।
Meaning
प्रत्यक्षं वानरेन्द्रस्य तद्वाक्यसमनन्तरम् । त्वया सन्त्यक्तया वीर त्यक्तं स्याज्जीवितं मया ।।6.119.12।।
Meaning
न वृथा ते श्रमोऽयं स्यात्संशये न्यस्य जीवितम् । सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ।।6.119.13।।
Meaning
त्वया तु नरशार्दूल क्रोधमेवानुवर्तता । लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ।।6.119.14।।
Meaning
अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् । मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम् ।।6.119.15।।
Meaning
न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः । मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ।।6.119.16।।
Meaning
एवं ब्रुवाणा रुदती बाष्पगद्गदभाषिणी । अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ।।6.119.17।।
Meaning
चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् । मिथ्योपघातोपहता नाहं जीवितुमुत्सहे ।।6.119.18।।
Meaning
अप्रीतस्य गुणैर्भर्तुस्त्यक्ताया जनसंसदि । या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ।।6.119.19।।
Meaning
एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा । अमर्षवशमापन्नो राघवाननमैक्षत ।।6.119.20।।
Meaning