← Yuddha Kāṇḍa

Sarga 21: The Ocean Stirred

समुद्रसङ्क्षोभः

samudrasaṅkṣobhaḥ — word-by-word gloss for all 35 shlokas.

Page 2 of 435 shlokas in this sarga (verified max-across-sources)
Shloka 21.11Word-by-word available

स त्रिरात्रोषितस्तत्र नयज्ञो धर्मवत्सलः । उपासत तदा रामः सागरं सरितां पतिम् ।।6.21.11।।

Meaning

Shloka 21.12Word-by-word available

न च दर्शयते मन्दस्तदा रामस्य सागरः । प्रयतेनापि रामेण यथार्हमभिपूजितः ।।6.21.12।।

Meaning

Shloka 21.13Word-by-word available

समुद्रस्य ततः क्रुद्धो रामो रक्तान्तलोचनः । समीपस्थमुवाचेदं लक्ष्मणं शुभलक्षणम् ।।6.21.13।।

Meaning

Shloka 21.14Word-by-word available

अवलेपः समुद्रस्य न दर्शयति यत्स्वयम् । प्रशमश्च क्षमा चैव आर्जवं प्रियवादिता ।।6.21.14।।

Meaning

Shloka 21.15Word-by-word available

असामर्थ्यं फलन्त्येते निर्गुणेषु सतां गुणाः । आत्मप्रशंसिनं दुष्टं धृष्टं विपरिधावकम् ।।6.21.15।।

Meaning

Shloka 21.16Word-by-word available

सर्वत्रोत्सृष्टदण्डं च लोकः सत्कुरुते नरम् । न साम्ना शक्यते कीर्तिर्न साम्ना शक्यते यशः ।।6.21.16।।

Meaning

Shloka 21.17Word-by-word available

प्राप्तुं लक्ष्मण लोकेऽस्मिन् जयो वा रणमूर्धनि । अद्य मद्बाणनिर्भिन्नैर्मकरैर्मकरालयम् ।।6.21.17।।

Meaning

Shloka 21.18Word-by-word available

निरुद्धतोऽयं सौमित्रे प्लवद्भिः पश्य सर्वतः । महाभोगानि मत्स्यानां करिणां च करानिह ।।6.21.18।।

Meaning

Shloka 21.19Word-by-word available

भोगिनां पश्य नागानां मया छिन्नानि लक्ष्मण । सशङ्खशुक्तिकाजालं समीनमकरं शरैः ।।6.21.19।।

Meaning

Shloka 21.20Word-by-word available

अद्य युद्धेन महता समुद्रं परिशोषये । क्षमया हि समायुक्तं मामयं मकरालयः ।।6.21.20।।

Meaning