Sarga 21: The Ocean Stirred
समुद्रसङ्क्षोभः
samudrasaṅkṣobhaḥ — word-by-word gloss for all 35 shlokas.
Jump to a shloka · 35 in this sarga
असमर्थं विजानाति धिक् क्षमामीदृशे जने । न दर्शयति साम्ना मे सागरो रूपमात्मनः ।।6.21.21।।
Meaning
चापमानय सौमित्रे शरांश्चाशीविषोपमान् । सागरं शोषयिष्यामि पद्भ्यां यान्तु प्लवङ्गमाः ।।6.21.22।।
Meaning
अद्याक्षोभ्यमपि क्रुद्धः क्षोभयिष्यामि सागरम् । वेलासु कृतमर्यादं सहसोर्मिसमाकुलम् ।।6.21.23।।
Meaning
निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् । महार्णवं क्षोभयिष्ये महानक्रसमाकुलम् ।।6.21.24।।
Meaning
एवमुक्त्वा धनुष्पाणिः क्रोधविस्फारितेक्षणः । बभूव रामो दुर्धर्षो युगान्ताग्निरिव ज्वलन् ।।6.21.25।।
Meaning
सम्पीड्य च धनुर्घोरं कम्पयित्वा शरैर्जगत् । मुमोच विशिखानुग्रान्वज्रानिव शतक्रतुः ।।6.21.26।।
Meaning
ते ज्वलन्तो महावेगास्तेजसा सायकोत्तमाः । प्रविशन्ति समुद्रस्य सलिलं त्रस्तपन्नगम् ।।6.21.27।।
Meaning
तोयवेगः समुद्रस्य सनक्रमकरो महान् । सम्बभूव महाघोरः समारुतरवस्तदा ।।6.21.28।।
Meaning
महोर्मिजालविततः शङ्खशुक्तिसमावृतः । सधूमपरिवृत्तोर्मिः सहसासीन्महोदधिः ।।6.21.29।।
Meaning
व्यथिताः पन्नगाश्चासन्दीप्तास्या दीप्तलोचनाः । दानवाश्च महावीर्याः पातालतलवासिनः ।।6.21.30।।
Meaning