← Yuddha Kāṇḍa
Sarga 21: The Ocean Stirred
समुद्रसङ्क्षोभः
samudrasaṅkṣobhaḥ — word-by-word gloss for all 35 shlokas.
Jump to a shloka · 35 in this sarga
Page 4 of 435 shlokas in this sarga (verified max-across-sources)
Shloka 21.31Word-by-word available
ऊर्मयः सिन्धुराजस्य सनक्रमकरास्तदा । विन्ध्यमन्दरसङ्काशाः समुत्पेतुः सहस्रशः ।।6.21.31।।
Meaning
Shloka 21.32Word-by-word available
आघूर्णिततरङ्गौघः सम्भ्रान्तोरगराक्षसः । उद्वर्तितमहाग्राहः संवृत्तः सलिलाशयः ।।6.21.32।।
Meaning
Shloka 21.33Word-by-word available
ततस्तु तं राघवमुग्रवेगं प्रकर्षमाणं धनुरप्रमेयम् । सौमित्रिरुत्पत्य समुच्छ्वसन्तं मा मेति चोक्त्वा धनुराललम्बे ।।6.21.33।।
Meaning
Shloka 21.34Word-by-word available
एतद्विनापि ह्युदधेस्तवाद्य सम्पत्स्यते वीरतमस्य कार्यम् । भवद्विधाः कोपवशं न यान्ति दीर्घं भवान्पश्यतु साधुवृत्तम् ।।6.21.34।।
Meaning
Shloka 21.35Word-by-word available
अन्तर्हितैश्चैव तथान्तरिक्षे ब्रह्मर्षिभिश्चैव सुरर्षिभिश्च । शब्दः कृतः कष्टमिति ब्रुवद्भिर्मा मेति चोक्त्वा महता स्वरेण ।।6.21.35।।
Meaning