Sarga 91: Indrajit Slain
रावणिवधः
rāvaṇivadhaḥ — word-by-word gloss for all 98 shlokas.
Jump to a shloka · 98 in this sarga
स राक्षसगणैर्मुख्यैर्वृतो मन्दोदरीसुतः । निर्ययौ नगरात्तूर्णं कृतान्तबलचोदितः ।।6.91.11।।
Meaning
सोऽभिनिष्क्रम्य नगरादिन्द्रजित्परवीरहा । अभ्ययाज्जवनैरश्वैर्लक्ष्मणं सविभीषणम् ।।6.91.12।।
Meaning
ततो रथस्तमालोक्य सौमित्री रावणात्मजम् । वानराश्च महावीर्या राक्षसश्च विभीषणः ।।6.91.13।।
Meaning
विस्मयं परमं जग्मुर्लाघवात्तस्य धीमतः । रावणिश्चापि सङ्क्रुद्धो रणे वानरयूथपान् ।।6.91.14।।
Meaning
पातयामास बाणौघैः शतशोऽथ सहस्रशः । स मण्डलीकृतधनू रावणिः समितिञ्जयः ।।6.91.15।।
Meaning
हरीनभ्यहनत्क्रुद्धः परं लाघवमास्थितः । ते वध्यमाना हरयो नाराचैर्भीमविक्रमाः ।।6.91.16।।
Meaning
सौमित्रिं शरणं प्राप्ताः प्रजापतिमिव प्रजाः । ततः समरकोपेन ज्वलितो रघुनन्दनः ।।6.91.17।।
Meaning
चिच्छेद कार्मुकं तस्य दर्शयन्पाणिलाघवम् । सोऽन्यत्कार्मुकमादाय सज्यं चक्रे त्वरन्निव ।।6.91.18।।
Meaning
तदप्यस्य त्रिभिर्बाणैर्लक्ष्मणो निरकृन्तत । अथैनं छिन्नधन्वानमाशीविषविषोपमैः ।।6.91.19।।
Meaning
विव्याधोरसि सौमित्री रावणिं पञ्चभिः शरैः । ते तस्य कायं निर्भिद्य महाकार्मुकनिःसृताः ।।6.91.20।।
Meaning