← Yuddha Kāṇḍa

Sarga 128: Hanumān Brings Bharata the Good News

भरतप्रियाख्यानम्

bharatapriyākhyānam — word-by-word gloss for all 45 shlokas.

Page 2 of 545 shlokas in this sarga (verified max-across-sources)
Shloka 128.11Word-by-word available

सह राक्षसराजेन हरीणां प्रवरेण च । एतच्छ्रुत्वा यमाकारं भजते भरतस्तदा ।।6.128.11।।

Meaning

Shloka 128.12Word-by-word available

स च ते वेदितव्यः स्यात्सर्वं यच्चापि मां प्रति । जित्वा शत्रुगणान्रामः प्राप्य चानुत्तमं यशः ।।6.128.12।।

Meaning

Shloka 128.13Word-by-word available

उपयाति समृद्धार्थः सह मित्रैर्महाबलैः । ज्ञेयाश्च सर्वे वृत्तान्ता भरतस्येङ्गितानि च ।।6.128.13।।

Meaning

Shloka 128.14Word-by-word available

तत्त्वेन मुखवर्णेन दृष्ट्या व्याभाषणेन च । सर्वकामसमृद्धं हि हस्त्यश्वरथसङ्कुलम् ।।6.128.14।।

Meaning

Shloka 128.15Word-by-word available

पितृपैतामहं राज्यं कस्य नावर्तयेन्मनः । सङ्गत्या भरतः श्रीमान्राज्यार्थी चेत्स्वयं भवेत् ।।6.128.15।।

Meaning

Shloka 128.16Word-by-word available

प्रशास्तु वसुधां कृत्स्नामखिलां रघुनन्दनः । तस्य बुद्धिं च विज्ञाय व्यवसायं च वानर ।।6.128.16।।

Meaning

Shloka 128.17Word-by-word available

यावन्न दूरं याताः स्म क्षिप्रमागन्तुमर्हसि । इति प्रतिसमादिष्टो हनुमान्मारुतात्मजः ।।6.128.17।।

Meaning

Shloka 128.18Word-by-word available

मानुषं धारयन्रूपमयोध्यां त्वरितो ययौ । अथोत्पपात वेगेन हनुमान्मारुतात्मजः ।।6.128.18।।

Meaning

Shloka 128.19Word-by-word available

गरुत्मानिव वेगेन जिघृक्षन्भुजगोत्तमम् । लङ्घयित्वा पितृपथं भुजगेन्द्रालयं शुभम् ।।6.128.19।।

Meaning

Shloka 128.20Word-by-word available

गङ्गायमुनयोर्मध्यं सन्निपातमतीत्य च । शृङ्गिबेरपुरं प्राप्य गुहमासाद्य वीर्यवान् ।।6.128.20।।

Meaning