Sarga 126: Rāma Describes the Way Home
प्रत्यावृत्तिपथवर्णनम्
pratyāvṛttipathavarṇanam — word-by-word gloss for all 56 shlokas.
Jump to a shloka · 56 in this sarga
मकराक्षश्च दुर्धर्षो मया युधि निपातितः । अकम्पनश्च निहतः शोणिताक्षश्च वीर्यवान् ।।6.126.11।।
Meaning
यूपाक्षश्च प्रजङ्घश्च निहतौ तु महाहवे । विद्युज्जिह्वोऽत्र निहतो राक्षसो भीमदर्शनः ।।6.126.12।।
Meaning
यज्ञशत्रुश्च निहतः सुप्तघ्नश्च महाबलः । अत्र मन्दोदरी नाम भार्या तं पर्यदेवयत् ।।6.126.13।।
Meaning
सपत्नीनां सहस्रेण सास्रेण परिवारिता । एतत्तु दृश्यते तीर्थं समुद्रस्य वरानने ।।6.126.14।।
Meaning
यत्र सागरमुत्तीर्य तां रात्रिमुषिता वयम् । एष सेतुर्मया बद्धः सागरे सलिलार्णवे ।।6.126.15।।
Meaning
तव हेतोर्विशालाक्षि नलसेतुः सुदुष्करः । पश्य सागरमक्षोभ्यं वैदेहि वरुणालयम् ।।6.126.16।।
Meaning
अपारमभिगर्जन्तं शङ्खशुक्तिनिषेवितम् । हिरण्यनाभं शैलेन्द्रं काञ्चनं पश्य मैथिलि ।।6.126.17।।
Meaning
विश्रमार्थं हनुमतो भित्त्वा सागरमुत्थितम् । एतत्कुक्षौ समुद्रस्य स्कन्धावारनिवेशनम् ।।6.126.18।।
Meaning
एतत्तु दृश्यते तीर्थं सागरस्य महात्मनः । सेतुबन्ध इति ख्यातं त्रैलोक्येनाभिपूजितम् ।।6.126.19।।
Meaning
एतत्पवित्रं परमं महापातकनाशनम् । अत्र पूर्वं महादेवः प्रसादमकरोत्प्रभुः ।।6.126.20।।
Meaning