Sarga 126: Rāma Describes the Way Home
प्रत्यावृत्तिपथवर्णनम्
pratyāvṛttipathavarṇanam — word-by-word gloss for all 56 shlokas.
Jump to a shloka · 56 in this sarga
अत्र राक्षसराजोऽयमाजगाम विभीषणः । एषा सा दृश्यते सीते किष्किन्धा चित्रकानना ।।6.126.21।।
Meaning
सुग्रीवस्य पुरी रम्या यत्र वाली मया हतः । अथ दृष्ट्वा पुरीं सीता किष्किन्धां वालिपालिताम् ।।6.126.22।।
Meaning
अब्रवीत्प्रश्रितं वाक्यं रामं प्रणयसाध्वसा । सुग्रीवप्रियभार्याभिस्ताराप्रमुखतो नृप ।।6.126.23।।
Meaning
अन्येषां वानरेन्द्राणां स्त्रीभिः परिवृता ह्यहम् । गन्तुमिच्छे सहायोध्यां राजधानीं त्वयाऽनघ ।।6.126.24।।
Meaning
एवमुक्तोऽथ वैदेह्या राघवः प्रत्युवाच ताम् । एवमस्त्विति किष्किन्धां प्राप्य संस्थाप्य राघवः ।।6.126.25।।
Meaning
विमानं प्रेक्ष्य सुग्रीवं वाक्यमेतदुवाच ह । ब्रूहि वानरशार्दूल सर्वान्वानरपुङ्गवान् ।।6.126.26।।
Meaning
स्वदारसहिताः सर्वे ह्ययोध्यां यान्तु सीतया । तथा त्वमपि सर्वाभिः स्त्रीभिः सह महाबल ।।6.126.27।।
Meaning
अभित्वरस्व सुग्रीव गच्छामः प्लवगेश्वर । एवमुक्तस्तु सुग्रीवो रामेणामिततेजसा ।।6.126.28।।
Meaning
वानराधिपतिः श्रीमांस्तैश्च सर्वैः समावृतः । प्रविश्यान्तःपुरं शीघ्रं तारामुद्वीक्ष्य भाषत ।।6.126.29।।
Meaning
प्रिये त्वं सह नारीभिर्वानराणां महात्मनाम् । राघवेणाभ्यनुज्ञाता मैथिलीप्रियकाम्यया ।।6.126.30।।
Meaning