Sarga 126: Rāma Describes the Way Home
प्रत्यावृत्तिपथवर्णनम्
pratyāvṛttipathavarṇanam — word-by-word gloss for all 56 shlokas.
Jump to a shloka · 56 in this sarga
त्वर त्वमभिगच्छामो गृह्य वानरयोषितः । अयोध्यां दर्शयिष्यामः सर्वा दशरथस्त्रियः ।।6.126.31।।
Meaning
सुग्रीवस्य वचः श्रुत्वा तारा सर्वाङ्गशोभना । आहूय चाब्रवीत्सर्वा वानराणां तु योषितः ।।6.126.32।।
Meaning
सुग्रीवेणाभ्यनुज्ञाता गन्तुं सर्वैश्च वानरैः । मम चापि प्रियं कार्यमयोध्यादर्शनेन च ।।6.126.33।।
Meaning
प्रवेशं चापि रामस्य पौरजानपदैः सह । विभूतिं चैव सर्वासां स्त्रीणां दशरथस्य च ।।6.126.34।।
Meaning
तारया चाभ्यनुज्ञाता सर्वा वानरयोषितः । नेपथ्यं विधिपूर्वेण कृत्वा चापि प्रदक्षिणम् ।।6.126.35।।
Meaning
अध्यारोहन्विमानं तत्सीतादर्शनकाङ्क्षया । ताभिः सहोत्थितं शीघ्रं विमानं प्रेक्ष्य राघवः ।।6.126.36।।
Meaning
ऋश्यमूकसमीपे तु वैदेहीं पुनरब्रवीत् । दृश्यतेऽसौ महान्सीते सविद्युदिव तोयदः ।।6.126.37।।
Meaning
ऋश्यमूको गिरिश्रेष्ठः काञ्चनैर्धातुभिर्वृतः । अत्राहं वानरेन्द्रेण सुग्रीवेण समागतः ।।6.126.38।।
Meaning
समयश्च कृतः सीते वधार्थं वालिनो मया । एषा सा दृश्यते पम्पा नलिनी चित्रकानना ।।6.126.39।।
Meaning
त्वया विहीनो यत्राहं विललाप सुदुःखितः । अस्यास्तीरे मया दृष्टा शबरी धर्मचारिणी ।।6.126.40।।
Meaning